Bhagavad Gita
Chapter 11, Verse 40
विश्वरूपदर्शनयोग - विराट रूप
Chapter 11 • Verse 40
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व | अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ||११-४०||
namaḥ purastādatha pṛṣṭhataste namo.astu te sarvata eva sarva . anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato.asi sarvaḥ ||11-40||
T Translation
।।11.40।। हे अनन्तसार्मथ्य वाले भगवन्! आपके लिए अग्रत: और पृष्ठत: नमस्कार है, हे सर्वात्मन्! आपको सब ओर से नमस्कार है। आप अमित विक्रमशाली हैं और आप सबको व्याप्त किये हुए हैं, इससे आप सर्वरूप हैं।।
C Commentary
।।11.40।। --,नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम्? अथ पृष्ठतः ते पृष्ठतः अपि च ते नमोऽस्तु? ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय हे सर्व। अनन्तवीर्यामितविक्रमः अनन्तं वीर्यम् अस्य? अमितः विक्रमः अस्य। वीर्यं सामर्थ्यं विक्रमः पराक्रमः। वीर्यवानपि कश्चित् शत्रुवधादिविषये न पराक्रमते? मन्दपराक्रमो वा। त्वं तु अनन्तवीर्यः अमितविक्रमश्च इति अनन्तवीर्यामितविक्रमः। सर्वं समस्तं जगत् समाप्नोषि सम्यक् एकेन आत्मना व्याप्नोषि यतः? ततः तस्मात् असि भवसि सर्वः त्वम्? त्वया विनाभूतं न किञ्चित् अस्ति इति अभिप्रायः।।यतः अहं त्वन्माहात्म्यापरिज्ञानात् अपराद्धः? अतः --,