Shopping Cart

Total Amount
Checkout Now
Bhagavad Gita

Chapter 2, Verse 68

सांख्ययोग - गीता का सार

Chapter 2 • Verse 68

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः | इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||२-६८||

tasmādyasya mahābāho nigṛhītāni sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-68||

T Translation

।।2.68।। इसलिये? हे महाबाहो जिस पुरुष की इन्द्रियाँ सब प्रकार इन्द्रियों के विषयों के वश में की हुई होती हैं? उसकी बुद्धि स्थिर होती है।।

C Commentary

।।2.68।। इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात्  तस्मात् यस्य  यतेः हे  महाबाहो निगृहीतानि सर्वशः  सर्वप्रकारैः मानसादिभेदैः  इन्द्रियाणि इन्द्रियार्थेभ्यः  शब्दादिभ्यः  तस्य प्रज्ञा प्रतिष्ठिता।।योऽयं लौकिको वैदिकश्च व्यवहारः स उत्पन्नविवेकज्ञानस्य स्थितप्रज्ञस्य अविद्याकार्यत्वात् अविद्यानिवृत्तौ निवर्तते अविद्यायाश्च विद्याविरोधात् निवृत्तिः इत्येतमर्थं स्फुटीकुर्वन् आह