Shopping Cart

Total Amount
Checkout Now
Bhagavad Gita

Chapter 11, Verse 16

विश्वरूपदर्शनयोग - विराट रूप

Chapter 11 • Verse 16

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् | नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ||११-१६||

anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato.anantarūpam . nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ||11-16||

T Translation

।।11.16।। हे विश्वेश्वर! मैं आपकी अनेक बाहु, उदर, मुख और नेत्रों से युक्त तथा सब ओर से अनन्त रूपों वाला देखता हूँ। हे विश्वरूप! मैं आपके न अन्त को देखता हूँ और न मध्य को और न आदि को।।

C Commentary

।।11.16।। --,अनेकबाहूदरवक्त्रनेत्रम् अनेके बाहवः उदराणि वक्त्राणि नेत्राणि च यस्य तव सः त्वम् अनेकबाहूदरवक्त्रनेत्रः तम् अनेकबाहूदरवक्त्रनेत्रम्। पश्यामि त्वा त्वां सर्वतः सर्वत्र अनन्तरूपम् अनन्तानि रूपाणि अस्य इति अनन्तरूपः तम् अनन्तरूपम्।,न अन्तम्? अन्तः अवसानम्? न मध्यम्? मध्यं नाम द्वयोः कोट्योः अन्तरम्? न पुनः तव आदिम् -- न देवस्य अन्तं पश्यामि? न मध्यं पश्यामि? न पुनः आदिं पश्यामि? हे विश्वेश्वर विश्वरूप।।किञ्च --,