Popular:
Ch 11

Chapter 11 • Verse 43

विश्वरूपदर्शनयोग (Yoga through Beholding the Cosmic Form of God)

Bhagavad Gita

Chapter 11, Verse 43

विश्वरूपदर्शनयोग - विराट रूप

Chapter 11 • Verse 43

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् | न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ||११-४३||

pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān . na tvatsamo.astyabhyadhikaḥ kuto.anyo lokatraye.apyapratimaprabhāva ||11-43||

T Translation

।।11.43।। आप इस चराचर जगत् के पिता, पूजनीय और सर्वश्रेष्ठ गुरु हैं। हे अप्रितम प्रभाव वाले भगवन्! तीनों लोकों में आपके समान भी कोई नहीं हैं, तो फिर आपसे अधिक श्रेष्ठ कैसे होगा?।।

C Commentary

।।11.43।। --,पिता असि जनयिता असि लोकस्य प्राणिजातस्य चराचरस्य स्थावरजङ्गमस्य। न केवलं त्वम् अस्य जगतः पिता? पूज्यश्च पूजार्हः? यतः गुरुः गरीयान् गुरुतरः। कस्मात् गुरुतरः त्वम् इति आह -- न त्वत्समः त्वत्तुल्यः अस्ति। न हि ईश्वरद्वयं संभवति? अनेकेश्वरत्वे व्यवहारानुपपत्तेः। त्वत्सम एव तावत् अन्यः न संभवति कुतः एव अन्यः अभ्यधिकः स्यात् लोकत्रयेऽपि सर्वस्मिन् अप्रतिमप्रभाव प्रतिमीयते यया सा प्रतिमा? न विद्यते प्रतिमा यस्य तव प्रभावस्य सः त्वम् अप्रतिमप्रभावः? हे अप्रतिमप्रभाव निरतिशयप्रभाव इत्यर्थः।।यतः एवम् --,