Shopping Cart

Total Amount
Checkout Now
Chapter 13 Overview

क्षेत्र-क्षेत्रज्ञविभागयोग

प्रकृति, पुरुष तथा चेतना • Yoga through Distinguishing the Field and the Knower of the Field

35 Verses

Chapter Summary

भगवद गीता का तेरवाह अध्याय क्षेत्र-क्षेत्रज्ञविभागयोग है। क्षेत्र शब्द का मतलब भूमि और क्षेत्ररक्षण का मतलब क्षेत्र का जानकार है। हमारा भौतिक शरीर क्षेत्र के सामान है और हमारी अमर आत्मा क्षेत्र के जानकार के सामान है। इस अध्याय में, कृष्ण भौतिक शरीर और अमर आत्मा के बीच भेद करते हैं। वह बताते हैं कि भौतिक शरीर अस्थायी और विनाशकारी है जबकि आत्मा स्थायी और शाश्वत है। भौतिक शरीर नष्ट हो सकता है लेकिन आत्मा कभी भी नष्ट नहीं हो सकती। यह अध्याय फिर भगवान का वर्णन करता है, जो की सर्वोच्च आत्मा हैं। सभी व्यक्तिगत आत्माएं सर्वोच्च आत्मा से उत्पन्न हुई हैं। जो स्पष्ट रूप से शरीर, आत्मा और सर्वोच्च आत्मा के बीच अंतर को समझ लेता है वह परमात्मा को प्राप्त कर लेता है।

The thirteenth chapter of the Bhagavad Gita is Ksetra Ksetrajna Vibhaaga Yoga. The word kshetra means the field, and the kshetrajna means the knower of the field. We can think of our material body as the field and our immortal soul as the knower of the field. In this chapter, Krishna discriminates between the physical body and the immortal soul. He explains that the physical body is temporary and perishable whereas the soul is permanent and eternal. The physical body can be destroyed but the soul can never be destroyed. The chapter then describes God, who is the Supreme Soul. All the individual souls have originated from the Supreme Soul. One who clearly understands the difference between the body, the Soul and the Supreme Soul attains the realization of Brahman.

Verse 1

अर्जुन उवाच | प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च | एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ||१३-१||

arjuna uvāca . prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca . etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava ||13-1||

T Translation

।।13.1।। अर्जुन ने कहा -- हे केशव ! मैं, प्रकृति और पुरुष, क्षेत्र और क्षेत्रज्ञ तथा ज्ञान और ज्ञेय को जानना चाहता हूँ।।

C Commentary

।।13.1।। -- No Commentary
Verse 2

श्रीभगवानुवाच | इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते | एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ||१३-२||

śrībhagavānuvāca . idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate . etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||13-2||

T Translation

।।13.2।। श्रीभगवान् ने कहा -- हे कौन्तेय ! यह शरीर क्षेत्र कहा जाता है और इसको जो जानता है, उसे तत्त्वज्ञ जन, क्षेत्रज्ञ कहते हैं।।

C Commentary

।।13.2।। --,इदम् इति सर्वनाम्ना उक्तं विशिनष्टि शरीरम् इति। हे कौन्तेय? क्षतत्राणात्? क्षयात्? क्षरणात्? क्षेत्रवद्वा अस्मिन् कर्मफलनिष्पत्तेः क्षेत्रम् इति -- इतिशब्दः एवंशब्दपदार्थकः -- क्षेत्रम् इत्येवम् अभिधीयते कथ्यते। एतत् शरीरं क्षेत्रं यः वेत्ति विजानाति? आपादतलमस्तकं ज्ञानेन विषयीकरोति? स्वाभाविकेन औपदेशिकेन वा वेदनेन विषयीकरोति विभागशः? तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञः इति -- इतिशब्दः एवंशब्दपदार्थकः एव पूर्ववत् -- क्षेत्रज्ञः इत्येवम् आहुः। के तद्विदः तौ क्षेत्रक्षेत्रज्ञौ ये विदन्ति ते तद्विदः।।एवं क्षेत्रक्षेत्रज्ञौ उक्तौ। किम् एतावन्मात्रेण ज्ञानेन ज्ञातव्यौ इति न इति उच्यते --,
Verse 3

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत | क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ||१३-३||

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata . kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ||13-3||

T Translation

।।13.3।। हे भारत ! तुम समस्त क्षेत्रों में क्षेत्रज्ञ मुझे ही जानो। क्षेत्र और क्षेत्रज्ञ का जो ज्ञान है, वही (वास्तव में) ज्ञान है , ऐसा मेरा मत है।।

C Commentary

।।13.3।। --,क्षेत्रज्ञं यथोक्तलक्षणं चापि मां परमेश्वरम् असंसारिणं विद्धि जानीहि। सर्वक्षेत्रेषु यः क्षेत्रज्ञः ब्रह्मादिस्तम्बपर्यन्तानेकक्षेत्रोपाधिप्रविभक्तः? तं निरस्तसर्वोपाधिभेदं सदसदादिशब्दप्रत्ययागोचरं विद्धि इति अभिप्रायः। हे भारत? यस्मात् क्षेत्रक्षेत्रज्ञेश्वरयाथात्म्यव्यतिरेकेण न ज्ञानगोचरम् अन्यत् अवशिष्टम् अस्ति? तस्मात् क्षेत्रक्षेत्रज्ञयोः ज्ञेयभूतयोः यत् ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते? तत् ज्ञानं सम्यग्ज्ञानम् इति मतम् अभिप्रायः मम ईश्वरस्य विष्णोः।।ननु सर्वक्षेत्रेषु एक एव ईश्वरः? न अन्यः तद्व्यतिरिक्तः भोक्ता विद्यते चेत्? ततः ईश्वरस्य संसारित्वं प्राप्तम् ईश्वरव्यतिरेकेण वा संसारिणः अन्यस्य अभावात् संसाराभावप्रसङ्गः। तच्च उभयमनिष्टम्? बन्धमोक्षतद्धेतुशास्त्रानर्थक्यप्रसङ्गात्? प्रत्यक्षादिप्रमाणविरोधाच्च। प्रत्यक्षेण तावत् सुखदुःखतद्धेतुलक्षणः संसारः उपलभ्यते जगद्वैचित्र्योपलब्धेश्च धर्माधर्मनिमित्तः संसारः अनुमीयते। सर्वमेतत् अनुपपन्नमात्मेश्वरैकत्वे।।न ज्ञानाज्ञानयोः अन्यत्वेनोपपत्तेः -- दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता (क0 उ0 1।2।4)। तथा च तयोः विद्याविद्याविषययोः फलभेदोऽपि विरुद्धः निर्दिष्टः -- श्रेयश्च प्रेयश्च इति विद्याविषयः श्रेयः? प्रेयस्तु अविद्याकार्यम् इति। तथा च व्यासः -- द्वाविमावथ पन्थानौ (महा0 शान्ति0 241।6) इत्यादि? इमौ द्वावेव पन्थानौ इत्यादि च। इह च द्वे निष्ठे उक्ते। अविद्या च सह कार्येण हातव्या इति श्रुतिस्मृतिन्यायेभ्यः अवगम्यते। श्रुतयः तावत् -- इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः (के0 उ0 2।5) तमेवं विद्वानमृत इह भवति (नृ0 पू0 उ0 6)। नान्यः पन्था विद्यतेऽयनाय (श्वे0 उ0 3।8) विद्वान्न बिभेति कुतश्चन (तै0 उ0 2।4)। अविदुषस्तु -- अथ तस्य भयं भवति (तै0 उ0 2।7)? अविद्यायामन्तरे वर्तमानाः (क0 उ0 1।2।5) ब्रह्म वेद ब्रह्मैव भवति (मु0 उ0 3।2।9) अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् आत्मवित् यः स इदं सर्वं भवति (बृह0 उ0 1।4।10) यदा चर्मवत् (श्वे0 उ0 6।20) इत्याद्याः सहस्रशः। स्मृतयश्च -- अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः (गीता 5।15) इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः (गीता 5।19) समं पश्यन् हि सर्वत्र (गीता 13।28) इत्याद्याः। न्यायतश्च -- सर्पान्कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति। अज्ञानतस्तत्र पतन्ति केचिज्ज्ञाने फलं पश्य तथाविशिष्टम् (महा0 शा0 201।16)। तथा च -- देहादिषु आत्मबुद्धिः अविद्वान् रागद्वेषादिप्रयुक्तः धर्माधर्मानुष्ठानकृत् जायते म्रियते च इति अवगम्यते देहादिव्यतिरिक्तात्मदर्शिनः रागद्वेषादिप्रहाणापेक्षधर्माधर्मप्रवृत्त्युपशमात् मुच्यन्ते इति न केनचित् प्रत्याख्यातुं शक्यं न्यायतः। तत्र एवं सति? क्षेत्रज्ञस्य ईश्वरस्यैव सतः अविद्याकृतोपाधिभेदतः संसारित्वमिव भवति? यथा देहाद्यात्मत्वमात्मनः। सर्वजन्तूनां हि प्रसिद्धः देहादिषु अनात्मसु आत्मभावः निश्चितः अविद्याकृतः? यथा स्थाणौ पुरुषनिश्चयः? न च एतावता पुरुषधर्मः स्थाणोः भवति? स्थाणुधर्मो वा पुरुषस्य? तथा न चैतन्यधर्मो देहस्य? देहधर्मो वा चेतनस्य सुखदुःखमोहात्मकत्वादिः आत्मनः न युक्तः अविद्याकृतत्वाविशेषात्? जरामृत्युवत्।।न? अतुल्यत्वात् इति चेत् -- स्थाणुपुरुषौ ज्ञेयावेव सन्तौ ज्ञात्रा अन्योन्यस्मिन् अध्यस्तौ अविद्यया देहात्मनोस्तु ज्ञेयज्ञात्रोरेव इतरेतराध्यासः? इति न समः दृष्टान्तः। अतः देहधर्मः ज्ञेयोऽपि ज्ञातुरात्मनः भवतीति चेत्? न अचैतन्यादिप्रसङ्गात्। यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुखदुःखमोहेच्छादयः ज्ञातुः भवन्ति? तर्हि? ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनः भवन्ति अविद्याध्यारोपिताः? जरामरणादयस्तु न भवन्ति इति विशेषहेतुः वक्तव्यः। न भवन्ति इति अस्ति अनुमानम् -- अविद्याध्यारोपितत्वात् जरामरणादिवत् इति? हेयत्वात्? उपादेयत्वाच्च इत्यादि। तत्र एवं सति? कर्तृत्वभोक्तृत्वलक्षणः संसारः ज्ञेयस्थः ज्ञातरि अविद्यया अध्यारोपितः इति? न तेन ज्ञातुः किञ्चित् दुष्यति? यथा बालैः अध्यारोपितेन आकाशस्य तलमलिनत्वादिना।।एवं च सति? सर्वक्षेत्रेष्वपि सतः भगवतः क्षेत्रज्ञस्य ईश्वरस्य संसारित्वगन्धमात्रमपि नाशङ्क्यम्। न हि क्वचिदपि लोके अविद्याध्यस्तेन धर्मेण कस्यचित् उपकारः अपकारो वा दृष्टः।।यत्तु उक्तम् -- न समः दृष्टान्तः इति? तत् असत्। कथम् अविद्याध्यासमात्रं हि दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं विवक्षितम्। तत् न व्यभिचरति। यत्तु ज्ञातरि व्यभिचरति इति मन्यसे? तस्यापि अनैकान्तिकत्वं दर्शितं जरादिभिः।।अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत्? न अविद्यायाः तामसत्वात्। तामसो हि प्रत्ययः? आवरणात्मकत्वात् अविद्या विपरीतग्राहकः? संशयोपस्थापको वा? अग्रहणात्मको वा विवेकप्रकाशभावे तदभावात्? तामसे च आवरणात्मके तिमिरादिदोषे सति अग्रहणादेः अविद्यात्रयस्य उपलब्धेः।।अत्र आह -- एवं तर्हि ज्ञातृधर्मः अविद्या। न करणे चक्षुषि तैमिरिकत्वादिदोषोपलब्धेः। यत्तु मन्यसे -- ज्ञातृधर्मः अविद्या? तदेव च अविद्याधर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वम् तत्र यदुक्तम् ईश्वर एव क्षेत्रज्ञः? न संसारी इत्येतत् अयुक्तमिति -- तत् न यथा करणे चक्षुषि विपरीतग्राहकादिदोषस्य दर्शनात्। न विपरीतादिग्रहणं तन्निमित्तं वा तैमिरिकत्वादिदोषः ग्रहीतुः? चक्षुषः संस्कारेण तिमिरे अपनीते ग्रहीतुः अदर्शनात् न ग्रहीतुर्धर्मः यथा तथा सर्वत्रैव अग्रहणविपरीतसंशयप्रत्ययास्तन्निमित्ताः करणस्यैव कस्यचित् भवितुमर्हन्ति? न ज्ञातुः क्षेत्रज्ञस्य। संवेद्यत्वाच्च तेषां प्रदीपप्रकाशवत् न ज्ञातृधर्मत्वम् -- संवेद्यत्वादेव स्वात्मव्यतिरिक्तसंवेद्यत्वम् सर्वकरणवियोगे च कैवल्ये सर्ववादिभिः अविद्यादिदोषवत्त्वानभ्युपगमात्। आत्मनः यदि क्षेत्रज्ञस्य अग्न्युष्णवत् स्वः धर्मः? ततः न कदाचिदपि तेन वियोगः स्यात्। अविक्रियस्य च व्योमवत् सर्वगतस्य अमूर्तस्य आत्मनः केनचित् संयोगवियोगानुपपत्तेः? सिद्धं क्षेत्रज्ञस्य नित्यमेव ईश्वरत्वम् अनादित्वान्निर्गुणत्वात् (गीता 13।31) इत्यादीश्वरवचनाच्च।।ननु एवं सति संसारसंसारित्वाभावे शास्त्रानर्थक्यादिदोषः स्यादिति चेत्? न सर्वैरभ्युपगतत्वात्। सर्वैर्हि आत्मवादिभिः अभ्युपगतः दोषः न एकेन परिहर्तव्यः भवति। कथम् अभ्युपगतः इति मुक्तात्मनां हि संसारसंसारित्वव्यवहाराभावः सर्वैरेव आत्मवादिभिः इष्यते। न च तेषां शास्त्रानर्थक्यादिदोषप्राप्तिः अभ्युपगता। तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति? शास्त्रानर्थक्यं भवतु अविद्याविषये च अर्थवत्त्वम् -- यथा द्वैतिनां सर्वेषां बन्धावस्थायामेव शास्त्राद्यर्थवत्त्वम्? न मुक्तावस्थायाम्? एवम्।।ननु आत्मनः बन्धमुक्तावस्थे परमार्थत एव वस्तुभूते द्वैतिनां सर्वेषाम्। अतः हेयोपादेयतत्साधनसद्भावे शास्त्राद्यर्थवत्त्वं स्यात्। अद्वैतिनां पुनः? द्वैतस्य अपरमार्थत्वात्? अविद्याकृतत्वात् बन्धावस्थायाश्च आत्मनः अपरमार्थत्वे निर्विषयत्वात्? शास्त्राद्यानर्थक्यम् इति चेत्? न आत्मनः अवस्थाभेदानुपपत्तेः। यदि तावत् आत्मनः बन्धमुक्तावस्थे? युगपत् स्याताम्? क्रमेण वा। युगपत् तावत् विरोधात् न संभवतः स्थितिगती इव एकस्मिन्। क्रमभावित्वे च? निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गः।,अन्यनिमित्तत्वे च स्वतः अभावात् अपरमार्थत्वप्रसङ्गः। तथा च सति अभ्युपगमहानिः। किञ्च? बन्धमुक्तावस्थयोः पौर्वापर्यनिरूपणायां बन्धावस्था पूर्वं प्रकल्प्या? अनादिमती अन्तवती च तच्च प्रमाणविरुद्धम्। तथा मोक्षावस्था आदिमती अनन्ता च प्रमाणविरुद्धैव अभ्युपगम्यते। न च अवस्थावतः अवस्थान्तरं गच्छतः नित्यत्वम् उपपादयितुं शक्यम्। अथ अनित्यत्वदोषपरिहाराय बन्धमुक्तावस्थाभेदो न कल्प्यते? अतः द्वैतिनामपि शास्त्रानर्थक्यादिदोषः अपरिहार्य एव इति समानत्वात् न अद्वैतवादिना परिहर्तव्यः दोषः।।न च शास्त्रानर्थक्यम्? यथाप्रसिद्धाविद्वत्पुरुषविषयत्वात् शास्त्रस्य। अविदुषां हि फलहेत्वोः अनात्मनोः आत्मदर्शनम्? न विदुषाम् विदुषां हि फलहेतुभ्याम् आत्मनः अन्यत्वदर्शने सति? तयोः अहमिति आत्मदर्शनानुपपत्तेः। न हि अत्यन्तमूढः उन्मत्तादिरपि जलाग्न्योः छायाप्रकाशयोर्वा ऐकात्म्यं पश्यति किमुत विवेकी। तस्मात् न विधिप्रतिषेधशास्त्रं तावत् फलहेतुभ्याम् आत्मनः अन्यत्वदर्शिनः भवति। न हि देवदत्त? त्वम् इदं कुरु इति कस्मिंश्चित् कर्मणि नियुक्ते? विष्णुमित्रः अहं नियुक्तः इति तत्रस्थः नियोगं श्रृण्वन्नपि प्रतिपद्यते। वियोगविषयविवेकाग्रहणात् तु उपपद्यते प्रतिपत्तिः तथा फलहेत्वोरपि।।ननु प्राकृतसंबन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थविषया -- फलहेतुभ्याम् अन्यात्मविषयदर्शनेऽपि सति -- इष्टफलहेतौ प्रवर्तितः अस्मि? अनिष्टफलहेतोश्च निवर्तितः अस्मीति यथा पितृपुत्रादीनाम् इतरेतरात्मान्यत्वदर्शने सत्यपि अन्योन्यनियोगप्रतिषेधार्थप्रतिपत्तिः। न व्यतिरिक्तात्मदर्शनप्रतिपत्तेः प्रागेव फलहेत्वोः आत्माभिमानस्य सिद्धत्वात्। प्रतिपन्ननियोगप्रतिषेधार्थो हि फलहेतुभ्याम् आत्मनः अन्यत्वं प्रतिपद्यते? न पूर्वम्। तस्मात् विधिप्रतिषेधशास्त्रम् अविद्वद्विषयम् इति सिद्धम्।।ननु स्वर्गकामो यजेत न कलञ्जं भक्षयेत् इत्यादौ आत्मव्यतिरेकदर्शिनाम् अप्रवृत्तौ? केवलदेहाद्यात्मदृष्टीनां च अतः कर्तुः अभावात् शास्त्रानर्थक्यमिति चेत्? न यथाप्रसिद्धित एव प्रवृत्तिनिवृत्त्युपपत्तेः। ईश्वरक्षेत्रज्ञैकत्वदर्शी ब्रह्मवित् तावत् न प्रवर्तते। तथा नैरात्म्यवाद्यपि नास्ति परलोकः इति न प्रवर्तते। यथाप्रसिद्धितस्तु विधिप्रतिषेधशास्त्रश्रवणान्यथानुपपत्त्या अनुमितात्मास्तित्वः आत्मविशेषानभिज्ञः कर्मफलसंजाततृष्णः श्रद्दधानतया च प्रवर्तते। इति सर्वेषां न प्रत्यक्षम्। अतः न शास्त्रानर्थक्यम्।।विवेकिनाम् अप्रवृत्तिदर्शनात् तदनुगामिनाम् अप्रवृत्तौ शास्त्रानर्थक्यम् इति चेत्? न कस्यचिदेव विवेकोपपत्तेः। अनेकेषु हि प्राणिषु कश्चिदेव विवेकी स्यात्? यथेदानीम्। न च विवेकिनम् अनुवर्तन्ते मूढाः? रागादिदोषतन्त्रत्वात् प्रवृत्तेः? अभिचरणादौ च प्रवृत्तिदर्शनात्? स्वाभाव्याच्च प्रवृत्तेः -- स्वभावस्तु प्रवर्तते (गीता 5।14) इति हि उक्तम्।।तस्मात् अविद्यामात्रं संसारः यथादृष्टविषयः एव। न क्षेत्रज्ञस्य केवलस्य अविद्या तत्कार्यं च। न च मिथ्याज्ञानं परमार्थवस्तु दूषयितुं समर्थम्। न हि ऊषरदेशं स्नेहेन पङ्कीकर्तुं शक्नोति मरीच्युदकम्। तथा अविद्या क्षेत्रज्ञस्य न किञ्चित् कर्तुं शक्नोति। अतश्चेदमुक्तम् -- क्षेत्रज्ञं चापि मां विद्धि (गीता 13।2) ? अज्ञानेनावृतं ज्ञानम् (गीता 5।15) इति च।।अथ किमिदं संसारिणामिव अहमेवम् ममैवेदम् इति पण्डितानामपि श्रृणु इदं तत् पाण्डित्यम्? यत् क्षेत्रे एव आत्मदर्शनम्। यदि पुनः क्षेत्रज्ञम् अविक्रियं पश्येयुः? ततः न भोगं कर्म वा आकाङ्क्षेयुः मम स्यात् इति। विक्रियैव भोगकर्मणी। अथ एवं सति? फलार्थित्वात् अविद्वान् प्रवर्तते। विदुषः पुनः अविक्रियात्मदर्शिनः फलार्थित्वाभावात् प्रवृत्त्यनुपपत्तौ कार्यकरणसंघातव्यापारोपरमे निवृत्तिः उपचर्यते।।इदं च अन्यत् पाण्डित्यं केषाञ्चित् अस्तु -- क्षेत्रज्ञः ईश्वर एव। क्षेत्रं च अन्यत् क्षेत्रज्ञस्यैव विषयः। अहं तु संसारी सुखी दुःखी च। संसारोपरमश्च मम कर्तव्यः क्षेत्रक्षेत्रज्ञविज्ञानेन? ध्यानेन च ईश्वरं क्षेत्रज्ञं साक्षात्कृत्वा तत्स्वरूपावस्थानेनेति। यश्च एवं बुध्यते? यश्च बोधयति? नासौ क्षेत्रज्ञः इति। एवं मन्वानः यः सः पण्डितापसदः? संसारमोक्षयोः शास्त्रस्य च अर्थवत्त्वं करोमीति आत्महा स्वयं मूढः अन्यांश्च व्यामोहयति शास्त्रार्थसंप्रदायरहितत्वात्? श्रुतहानिम् अश्रुतकल्पनां च कुर्वन्। तस्मात् असंप्रदायवित् सर्वशास्त्रविदपि मूर्खवदेव उपेक्षणीयः।।यत्तूक्तम् ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति? क्षेत्रज्ञानां च ईश्वरैकत्वे संसारिणः अभावात् संसाराभावप्रसङ्गः इति?,एतौ दोषौ प्रत्युक्तौ विद्याविद्ययोः वैलक्षण्याभ्युपगमात् इति। कथम् अविद्यापरिकल्पितदोषेण तद्विषयं वस्तु पारमार्थिकं न दुष्यतीति। तथा च दृष्टान्तः दर्शितः -- मरीच्यम्भसा ऊषरदेशो न पङ्कीक्रियते इति। संसारिणः अभावात् संसाराभावप्रसङ्गदोषोऽपि संसारसंसारिणोः अविद्याकल्पितत्वोपपत्त्या प्रत्युक्तः।।ननु अविद्यावत्त्वमेव क्षेत्रज्ञस्य संसारित्वदोषः। तत्कृतं च सुखित्वदुःखित्वादि प्रत्यक्षम् उपलभ्यते इति चेत्? न ज्ञेयस्य क्षेत्रधर्मत्वात्? ज्ञातुः क्षेत्रज्ञस्य तत्कृतदोषानुपपत्तेः। यावत् किञ्चित् क्षेत्रज्ञस्य दोषजातम् अविद्यमानम् आसञ्जयसि? तस्य ज्ञेयत्वोपपत्तेः क्षेत्रधर्मत्वमेव? न क्षेत्रज्ञधर्मत्वम्। न च तेन क्षेत्रज्ञः दुष्यति? ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः। यदि हि संसर्गः स्यात्? ज्ञेयत्वमेव नोपपद्येत। यदि आत्मनः धर्मः अविद्यावत्त्वं दुःखित्वादि च कथं भोः प्रत्यक्षम् उपलभ्यते? कथं वा क्षेत्रज्ञधर्मः। ज्ञेयं च सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञः इति अवधारिते? अविद्यादुःखित्वादेः क्षेत्रज्ञविशेषणत्वं क्षेत्रज्ञधर्मत्वं तस्य च प्रत्यक्षोपलभ्यत्वम् इति विरुद्धम् उच्यते अविद्यामात्रावष्टम्भात् केवलम्।।अत्र आह -- सा अविद्या कस्य इति। यस्य दृश्यते तस्य एव। कस्य दृश्यते इति। अत्र उच्यते -- अविद्या कस्य दृश्यते इति प्रश्नः निरर्थकः। कथम् दृश्यते चेत् अविद्या तद्वन्तमपि पश्यसि। न च तद्वति उपलभ्यमाने सा कस्य इति प्रश्नो युक्तः। न हि गोमति उपलभ्यमाने गावः कस्य इति प्रश्नः अर्थवान् भवति। ननु विषमो दृष्टान्तः। गवां तद्वतश्च प्रत्यक्षत्वात् तत्संबन्धोऽपि प्रत्यक्ष प्रश्नो निरर्थकः। न तथा अविद्या तद्वांश्च प्रत्यक्षौ? यतः प्रश्नः निरर्थकः स्यात्। अप्रत्यक्षेण अविद्यावता अविद्यासंबन्धे ज्ञाते? किं तव स्यात् अविद्यायाः अनर्थहेतुत्वात् परिहर्तव्या स्यात्। यस्य अविद्या? सः तां परिहरिष्यति। ननु ममैव अविद्या। जानासि तर्हि अविद्यां तद्वन्तं च आत्मानम्। जानामि? न तु प्रत्यक्षेण। अनुमानेन चेत् जानासि? कथं संबन्धग्रहणम् न हि तव ज्ञातुः ज्ञेयभूतया अविद्यया तत्काले संबन्धः ग्रहीतुं शक्यते? अविद्याया विषयत्वेनैव ज्ञातुः उपयुक्तत्वात्। न च ज्ञातुः अविद्यायाश्च संबन्धस्य यः ग्रहीता? ज्ञानं च अन्यत् तद्विषयं संभवति अनवस्थाप्राप्तेः। यदि ज्ञात्रापि ज्ञेयसंबन्धो ज्ञायते? अन्यः ज्ञाता कल्प्यः स्यात्? तस्यापि अन्यः? तस्यापि अन्यः इति अनवस्था अपरिहार्या। यदि पुनः अविद्या ज्ञेया? अन्यद्वा ज्ञेयं ज्ञेयमेव। तथा ज्ञातापि ज्ञातैव? न ज्ञेयं भवति। यदा च एवम्? अविद्यादुःखित्वाद्यैः न ज्ञातुः क्षेत्रज्ञस्य किञ्चित् दुष्यति।।ननु अयमेव दोषः? यत् दोषवत्क्षेत्रविज्ञातृत्वम् न च विज्ञानस्वरूपस्यैव अविक्रियस्य विज्ञातृत्वोपचारात् यथा उष्णतामात्रेण अग्नेः तप्तिक्रियोपचारः? तद्वत्। यथा अत्र भगवता क्रियाकारकफलात्मत्वाभावः आत्मनि स्वत एव दर्शितः -- अविद्याध्यारोपितैः एव क्रियाकारकादिः आत्मनि उपचर्यते तथा तत्र तत्र य एनं वेत्ति हन्तारम् (गीता 2।19) प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः (गीता 3।27) नादत्ते कस्यचित्पापम् (गीता 5।15) इत्यादिप्रकरणेषु दर्शितः। तथैव च व्याख्यातम् अस्माभिः। उत्तरेषु च प्रकरणेषु दर्शयिष्यामः।।हन्त तर्हि आत्मनि क्रियाकारकफलात्मतायाः स्वतः अभावे? अविद्यया च अध्यारोपितत्वे? कर्माणि अविद्वत्कर्तव्यान्येव? न विदुषाम् इति प्राप्तम्। सत्यम् एवं प्राप्तम्? एतदेव च न हि देहभृता शक्यम् (गीता 18।11) इत्यत्र दर्शयिष्यामः। सर्वशास्त्रार्थोपसंहारप्रकरणे च समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा (गीता 18।50) इत्यत्र विशेषतः दर्शयिष्यामः। अलम् इह बहुप्रपञ्चनेन? इति उपसंह्रियते।।इदं शरीरम् (गीता13।1) इत्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य संग्रहश्लोकः अयम् उपन्यस्यते तत्क्षेत्रं यच्च (गीता 13।3) इत्यादि? व्याचिख्यासितस्य हि अर्थस्य संग्रहोपन्यासः न्याय्यः इति --,
Verse 4

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् | स च यो यत्प्रभावश्च तत्समासेन मे शृणु ||१३-४||

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat . sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ||13-4||

T Translation

।।13.4।। इसलिये, वह क्षेत्र जो है और जैसा है तथा जिन विकारों वाला है, और जिस (कारण) से जो (कार्य) हुआ है तथा वह (क्षेत्रज्ञ) भी जो है और जिस प्रभाव वाला है, वह संक्षेप में मुझसे सुनो।।

C Commentary

।।13.4।। --,यत् निर्दिष्टम् इदं शरीरम् इति तत् तच्छब्देन परामृशति। यच्च इदं निर्दिष्टं क्षेत्रं तत् यादृक् यादृशं स्वकीयैः धर्मैः। चशब्दः समुच्चयार्थः। यद्विकारि यः विकारः यस्य तत् यद्विकारि? यतः यस्मात् च यत्? कार्यम् उत्पद्यते इति वाक्यशेषः। स च यः क्षेत्रज्ञः निर्दिष्टः सः यत्प्रभावः ये प्रभावाः उपाधिकृताः शक्तयः यस्य सः यत्प्रभावश्च। तत् क्षेत्रक्षेत्रज्ञयोः याथात्म्यं यथाविशेषितं समासेन संक्षेपेण मे मम वाक्यतः शृणु? श्रुत्वा अवधारय इत्यर्थः।।तत् क्षेत्रक्षेत्रज्ञयाथात्म्यं विवक्षितं स्तौति श्रोतृबुद्धिप्ररोचनार्थम् --,
Verse 5

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् | ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||१३-५||

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||13-5||

T Translation

।।13.5।। (क्षेत्र-क्षेत्रज्ञ के विषय में) ऋषियों द्वारा विभिन्न और विविध छन्दों में बहुत प्रकार से गाया गया है, तथा सम्यक् प्रकार से निश्चित किये हुये युक्तियुक्त ब्रह्मसूत्र के पदों द्वारा (अर्थात् ब्रह्म के सूचक शब्दों द्वारा) भी (वैसे ही कहा गया है)।।

C Commentary

।।13.5।। --,ऋषिभिः वसिष्ठादिभिः बहुधा बहुप्रकारं गीतं कथितम्। छन्दोभिः छन्दांसि ऋगादीनि तैः छन्दोभिः विविधैः नानाभावैः नानाप्रकारैः पृथक् विवेकतः गीतम्। किञ्च? ब्रह्मसूत्रपदैश्च एव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः पद्यते गम्यते ज्ञायते इति तानि पदानि उच्यन्ते तैरेव च क्षेत्रक्षेत्रज्ञयाथात्म्यम् गीतम् इति अनुवर्तते। आत्मेत्येवोपासीत (बृह0 उ0 1।4।7) इत्येवमादिभिः ब्रह्मसूत्रपदैः आत्मा ज्ञायते? हेतुमद्भिः युक्तियुक्तैः विनिश्चितैः निःसंशयरूपैः निश्चितप्रत्ययोत्पादकैः इत्यर्थः।।स्तुत्या अभिमुखीभूताय अर्जुनाय आह भगवान् --,
Verse 6

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च | इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ||१३-६||

mahābhūtānyahaṃkāro buddhiravyaktameva ca . indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ||13-6||

T Translation

।।13.6।। पंच महाभूत, अहंकार, बुद्धि, अव्यक्त (प्रकृति), दस इन्द्रियाँ, एक मन, इन्द्रियों के पाँच विषय।।

C Commentary

।।13.6।। -- महाभूतानि महान्ति च तानि सर्वविकारव्यापकत्वात् भूतानि च सूक्ष्माणि। स्थूलानि तु इन्द्रियगोचरशब्देन अभिधायिष्यन्ते अहंकारः महाभूतकारणम् अहंप्रत्ययलक्षणः। अहंकारकारणं बुद्धिः अध्यवसायलक्षणा। तत्कारणम् अव्यक्तमेव च? न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वरशक्तिः मम माया दुरत्यया (गीता 7।14) इत्युक्तम्। एवशब्दः प्रकृत्यवधारणार्थः एतावत्येव अष्टधा भिन्ना प्रकृतिः। चशब्दः भेदसमुच्चयार्थः। इन्द्रियाणि दश? श्रोत्रादीनि पञ्च बुद्ध्युत्पादकत्वात् बुद्धीन्द्रियाणि? वाक्पाण्यादीनि पञ्च कर्मनिर्वर्तकत्वात् कर्मेन्द्रियाणि तानि दश। एकं च किं तत् मनः एकादशं संकल्पाद्यात्मकम्। पञ्च च इन्द्रियगोचराः शब्दादयो विषयाः। तानि एतानि सांख्याः चतुर्विंशतितत्त्वानि आचक्षते।।
Verse 7

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः | एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ||१३-७||

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ . etatkṣetraṃ samāsena savikāramudāhṛtam ||13-7||

T Translation

।।13.7।। इच्छा, द्वेष, सुख, दुख, संघात (स्थूलदेह), चेतना (अन्त:करण की चेतन वृत्ति) तथा धृति -  इस प्रकार यह क्षेत्र विकारों के सहित संक्षेप में कहा गया है।।

C Commentary

।।13.7।। --,इच्छा? यज्जातीयं सुखहेतुमर्थम्? उपलब्धवान् पूर्वम्? पुनः तज्जातीयमुपलभमानः तमादातुमिच्छति सुखहेतुरिति सा इयं इच्छा अन्तःकरणधर्मः ज्ञेयत्वात् क्षेत्रम्। तथा द्वेषः? यज्जातीयमर्थं दुःखहेतुत्वेन अनुभूतवान्? पुनः तज्जातीयमर्थमुपलभमानः तं द्वेष्टि सोऽयं द्वेषः ज्ञेयत्वात् क्षेत्रमेव। तथा सुखम् अनुकूलं प्रसन्नसत्त्वात्मकं ज्ञेयत्वात् क्षेत्रमेव। दुःखं प्रतिकूलात्मकम् ज्ञेयत्वात् तदपि क्षेत्रम्। संघातः देहेन्द्रियाणां संहतिः। तस्यामभिव्यक्तान्तःकरणवृत्तिः? तप्त इव लोहपिण्डे अग्निः आत्मचैतन्याभासरसविद्धा चेतना सा च क्षेत्रं ज्ञेयत्वात्। धृतिः यया अवसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते सा च ज्ञेयत्वात् क्षेत्रम्। सर्वान्तःकरणधर्मोपलक्षणार्थम् इच्छादिग्रहणम्। यत उक्तमुपसंहरति एतत् क्षेत्रं समासेन सविकारं सह विकारेण महदादिना उदाहृतम् उक्तम्।।यस्य क्षेत्रभेदजातस्य संहतिः इदं शरीरं क्षेत्रम् इति उक्तम्? तत् क्षेत्रं व्याख्यातं महाभूतादिभेदभिन्नं धृत्यन्तम्। क्षेत्रज्ञः वक्ष्यमाणविशेषणः -- यस्य सप्रभावस्य क्षेत्रज्ञस्य परिज्ञानात् अमृतत्वं भवति? तम् ज्ञेयं यत्तत्प्रवक्ष्यामि (गीता 13।12) इत्यादिना सविशेषणं स्वयमेव वक्ष्यति भगवान्। अधुना तु तज्ज्ञानसाधनगणममानित्वादिलक्षणम्? यस्मिन् सति तज्ज्ञेयविज्ञाने योग्यः अधिकृतः भवति? यत्परः संन्यासी ज्ञाननिष्ठः उच्यते? तम् अमानित्वादिगणं ज्ञानसाधनत्वात् ज्ञानशब्दवाच्यं विदधाति भगवान् --,
Verse 8

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् | आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ||१३-८||

amānitvamadambhitvamahiṃsā kṣāntirārjavam . ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ||13-8||

T Translation

।।13.8।। अमानित्व, अदम्भित्व, अहिंसा, क्षमा, आर्जव, आचार्य की सेवा, शुद्धि, स्थिरता और आत्मसंयम।।

C Commentary

।।13.8।। --,अमानित्वं मानिनः भावः मानित्वमात्मनः श्लाघनम्? तदभावः अमानित्वम्। अदम्भित्वं स्वधर्मप्रकटीकरणं दम्भित्वम्? तदभावः अदम्भित्वम्। अहिंसा अहिंसनं प्राणिनामपीडनम्। क्षान्तिः परापराधप्राप्तौ अविक्रिया। आर्जवम् ऋजुभावः अवक्रत्वम्। आचार्योपासनं मोक्षसाधनोपदेष्टुः आचार्यस्य शुश्रूषादिप्रयोगेण सेवनम्। शौचं कायमलानां मृज्जलाभ्यां प्रक्षालनम् अन्तश्च मनसः प्रतिपक्षभावनया रागादिमलानामपनयनं शौचम्। स्थैर्यं स्थिरभावः? मोक्षमार्गे एव कृताध्यवसायत्वम्। आत्मविनिग्रहः आत्मनः अपकारकस्य आत्मशब्दवाच्यस्य कार्यकरणसंघातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्मार्गे एव निरोधः आत्मविनिग्रहः।।किञ्च --,
Verse 9

इन्द्रियार्थेषु वैराग्यमनहंकार एव च | जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ||१३-९||

indriyārtheṣu vairāgyamanahaṃkāra eva ca . janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ||13-9||

T Translation

।।13.9।। इन्द्रियों के विषय के प्रति वैराग्य, अहंकार का अभाव, जन्म, मृत्यु, वृद्धवस्था, व्याधि और दुख में दोष दर्शन...৷৷.।।

C Commentary

।।13.9।। --,इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विरागभावो वैराग्यम् अनहंकारः अहंकाराभावः एव च जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं जन्म च मृत्युश्च जरा च व्याधयश्च दुःखानि च तेषु जन्मादिदुःखान्तेषु प्रत्येकं दोषानुदर्शनम्। जन्मनि गर्भवासयोनिद्वारनिःसरणं दोषः? तस्य अनुदर्शनमालोचनम्। तथा मृत्यौ दोषानुदर्शनम्। तथा जरायां प्रज्ञाशक्तितेजोनिरोधदोषानुदर्शनं परिभूतता चेति। तथा व्याधिषु शिरोरोगादिषु दोषानुदर्शनम्। तथा दुःखेषु अध्यात्माधिभूताधिदैवनिमित्तेषु। अथवा दुःखान्येव दोषः दुःखदोषः तस्य जन्मादिषु पूर्ववत् अनुदर्शनम् -- दुःखं जन्म? दुःखं मृत्युः? दुःखं जरा? दुःखं व्याधयः। दुःखनिमित्तत्वात् जन्मादयः दुःखम्? न पुनः स्वरूपेणैव दुःखमिति। एवं जन्मादिषु दुःखदोषानुदर्शनात् देहेन्द्रियादिविषयभोगेषु वैराग्यमुपजायते। ततः प्रत्यगात्मनि प्रवृत्तिः करणानामात्मदर्शनाय। एवं,ज्ञानहेतुत्वात् ज्ञानमुच्यते जन्मादिदुःखदोषानुदर्शनम्।।किञ्च --,
Verse 10

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु | नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ||१३-१०||

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu . nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu ||13-10||

T Translation

।।13.10।। आसक्ति तथा पुत्र, पत्नी, गृह आदि में अनभिष्वङ्ग (तादात्म्य का अभाव); और इष्ट और अनिष्ट की प्राप्ति में समचित्तता।।

C Commentary

।।13.10।। --,असक्तिः सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रम्? तदभावः असक्तिः। अनभिष्वङ्गः अभिष्वङ्गाभावः। अभिष्वङ्गो नाम आसक्तिविशेष एव अनन्यात्मभावनालक्षणः यथा अन्यस्मिन् सुखिनि दुःखिनि वा अहमेव सुखी? दुःखी च? जीवति मृते वा अहमेव जीवामि मरिष्यामि च इति। क्व इति आह -- पुत्रदारगृहादिषु? पुत्रेषु दारेषु गृहेषु आदिग्रहणात् अन्येष्वपि अत्यन्तेष्टेषु दासवर्गादिषु। तच्च उभयं ज्ञानार्थत्वात् ज्ञानमुच्यते। नित्यं च समचित्तत्वं तुल्यचित्तता। क्व इष्टानिष्टोपपत्तिषु इष्टानामनिष्टानां च उपपत्तयः संप्राप्तयः तासु इष्टानिष्टोपपत्तिषु नित्यमेव तुल्यचित्तता। इष्टोपपत्तिषु न हृष्यति? न कुप्यति च अनिष्टोपपत्तिषु। तच्च एतत् नित्यं समचित्तत्वं ज्ञानम्।।किञ्च --,
Verse 11

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी | विविक्तदेशसेवित्वमरतिर्जनसंसदि ||१३-११||

mayi cānanyayogena bhaktiravyabhicāriṇī . viviktadeśasevitvamaratirjanasaṃsadi ||13-11||

T Translation

।।13.11।। अनन्ययोग के द्वारा मुझमें अव्यभिचारिणी भक्ति; एकान्त स्थान में रहने का स्वभाव और (असंस्कृत) जनों के समुदाय में अरुचि।।

C Commentary

।।13.11।। --,मयि च इश्वरे अनन्ययोगेन अपृथक्समाधिना न अन्यो भगवतो वासुदेवात् परः अस्ति? अतः स एव नः गतिः इत्येवं निश्चिता अव्यभिचारिणी बुद्धिः अनन्ययोगः? तेन भजनं भक्तिः न व्यभिचरणशीला अव्यभिचारिणी। सा च ज्ञानम्। विविक्तदेशसेवित्वम्? विविक्तः स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च रहितः अरण्यनदीपुलिनदेवगृहादिभिर्विविक्तो देशः? तं सेवितुं शीलमस्य इति विविक्तदेशसेवी? तद्भावः विवक्तदेशसेवित्वम्। विविक्तेषु हि देशेषु चित्तं प्रसीदति यतः ततः आत्मादिभावना विविक्ते उपजायते। अतः विविक्तदेशसेवित्वं ज्ञानमुच्यते। अरतिः अरमणं जनसंसदि? जनानां प्राकृतानां संस्कारशून्यानाम् अविनीतानां संसत् समवायः जनसंसत् न संस्कारवतां विनीतानां संसत् तस्याः ज्ञानोपकारकत्वात्। अतः प्राकृतजनसंसदि अरतिः ज्ञानार्थत्वात् ज्ञानम्।।किञ्च --,
Verse 12

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् | एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ||१३-१२||

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam . etajjñānamiti proktamajñānaṃ yadato.anyathā ||13-12||

T Translation

।।13.12।। अध्यात्मज्ञान में नित्यत्व अर्थात् स्थिरता तथा तत्त्वज्ञान के अर्थ रूप परमात्मा का दर्शन, यह सब तो ज्ञान कहा गया है, और जो इससे विपरीत है, वह अज्ञान है।।

C Commentary

।।13.12।। --,अध्यात्मज्ञाननित्यत्वम् आत्मादिविषयं ज्ञानम् अध्यात्मज्ञानम्? तस्मिन् नित्यभावः नित्यत्वम्। अमानित्वादीनां ज्ञानसाधनानां भावनापरिपाकनिमित्तं तत्त्वज्ञानम्? तस्य अर्थः मोक्षः संसारोपरमः तस्य आलोचनं तत्त्वज्ञानार्थदर्शनम् तत्त्वज्ञानफलालोचने हि तत्साधनानुष्ठाने प्रवृत्तिः स्यादिति। एतत् अमानित्वादितत्त्वज्ञानार्थदर्शनान्तमुक्तं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात्। अज्ञानं यत् अतः अस्मात् यथोक्तात् अन्यथा विपर्ययेण। मानित्वं दम्भित्वं हिंसा अक्षान्तिः अनार्जवम् इत्यादि अज्ञानं विज्ञेयं परिहरणाय? संसारप्रवृत्तिकारणत्वात् इति।।यथोक्तेन ज्ञानेन ज्ञातव्यं किम् इत्याकाङ्क्षायामाह -- ज्ञेयं यत्तत् इत्यादि। ननु यमाः नियमाश्च अमानित्वादयः। न तैः ज्ञेयं ज्ञायते। न हि अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम्। सर्वत्रैव च यद्विषयं ज्ञानं तदेव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते। न हि अन्यविषयेण ज्ञानेन अन्यत् उपलभ्यते? यथा घटविषयेण ज्ञानेन अग्निः। नैष दोषः? ज्ञाननिमित्तत्वात् ज्ञानमुच्यते इति हि अवोचाम ज्ञानसहकारिकारणत्वाच्च --,
Verse 13

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते | अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ||१३-१३||

jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute . anādi matparaṃ brahma na sattannāsaducyate ||13-13||

T Translation

।।13.13।। मैं उस ज्ञेय वस्तु को स्पष्ट कहूंगा जिसे जानकर मनुष्य अमृतत्व को प्राप्त करता है। वह ज्ञेय है - अनादि, परम ब्रह्म, जो न सत् और न असत् ही कहा जा सकता है।।

C Commentary

।।13.13।। --,ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि। किं फलं तत् इति प्ररोचनेन श्रोतुः अभिमुखीकरणाय आह -- यत् ज्ञेयं ज्ञात्वा अमृतम् अमृतत्वम् अश्नुते? न पुनः म्रियते इत्यर्थः। अनादिमत् आदिः अस्य अस्तीति आदिमत्? न आदिमत् अनादिमत् किं तत् परं निरतिशयं ब्रह्म? ज्ञेयम् इति प्रकृतम्।।अत्र केचित् अनादि मत्परम् इति पदं छिन्दन्ति? बहुव्रीहिणा उक्ते अर्थे मतुपः आनर्थक्यम् अनिष्टं स्यात् इति। अर्थविशेषं च दर्शयन्ति -- अहं वासुदेवाख्या परा शक्ितः यस्य तत् मत्परम् इति। सत्यमेवमपुनरुक्तं स्यात्? अर्थः चेत् संभवति। न तु अर्थः संभवति? ब्रह्मणः सर्वविशेषप्रतिषेधेनैव विजिज्ञापयिषितत्वात् न सत्तन्नासदुच्यते इति। विशिष्टशक्ितमत्त्वप्रदर्शनं विशेषप्रतिषेधश्च इति विप्रतिषिद्धम्। तस्मात् मतुपः बहुव्रीहिणा समानार्थत्वेऽपि प्रयोगः श्लोकपूरणार्थः।।अमृतत्वफलं ज्ञेयं मया उच्यते इति प्ररोचनेन अभिमुखीकृत्य आह -- न सत् तत् ज्ञेयमुच्यते इति न अपि असत् तत् उच्यते।।ननु महता परिकरबन्धेन कण्ठरवेण उद्धुष्य ज्ञेयं प्रवक्ष्यामि इति? अननुरूपमुक्तं न सत्तन्नासदुच्यते इति। न? अनुरूपमेव उक्तम्। कथम् सर्वासु हि उपनिषत्सु ज्ञेयं ब्रह्म नेति नेति (बृह0 उ0 4।4।22) अस्थूलमनणु (बृह0 उ0 3।3।8) इत्यादिविशेषप्रतिषेधेनैव निर्दिश्यते? न इदं तत् इति? वाचः अगोचरत्वात्।।ननु न तदस्ति? यद्वस्तु अस्तिशब्देन नोच्यते। अथ अस्तिशब्देन नोच्यते? नास्ति तत् ज्ञेयम्। विप्रतिषिद्धं च -- ज्ञेयं तत् ? अस्तिशब्देन नोच्यते इति च। न तावन्नास्ति? नास्तिबुद्ध्यविषयत्वात्।।ननु सर्वाः बुद्धयः अस्तिनास्तिबुद्ध्यनुगताः एव। तत्र एवं सति ज्ञेयमपि अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्? नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्। न? अतीन्द्रियत्वेन उभयबुद्ध्यनुगतप्रत्ययाविषयत्वात्। यद्धि इन्द्रियगम्यं वस्तु घटादिकम्? तत् अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्? नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्। इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैकप्रमाणगम्यत्वात् न घटादिवत् उभयबुद्ध्यनुगतप्रत्ययविषयम् इत्यतः न सत्तन्नासत् इति उच्यते।।यत्तु उक्तम् -- विरुद्धमुच्यते? ज्ञेयं तत् न सत्तन्नासदुच्यते इति -- न विरुद्धम्? अन्यदेव तद्विदितादथो अविदितादधि (के0 उ0 1।3) इति श्रुतेः। श्रुतिरपि विरुद्धार्था इति चेत् -- यथा यज्ञाय शालामारभ्य यद्यमुष्िमँल्लोकेऽस्ति वा न वेति (तै0 सं0 6।1।1) इत्येवमिति चेत्? न विदिताविदिताभ्यामन्यत्वश्रुतेः अवश्यविज्ञेयार्थप्रतिपादनपरत्वात् यद्यमुष्मिन् इत्यादि तु विधिशेषः अर्थवादः। उपपत्तेश्च सदसदादिशब्दैः ब्रह्म नोच्यते इति। सर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः? श्रूयमाणश्च श्रोतृभिः? जातिक्रियागुणसंबन्धद्वारेण संकेतग्रहणसव्यपेक्षः अर्थं प्रत्याययति न अन्यथा? अदृष्टत्वात्। तत् यथा -- गौः अश्वः इति वा जातितः? पचति पठति इति वा क्रियातः? शुक्लः कृष्णः इति वा गुणतः? धनी गोमान् इति वा संबन्धतः। न तु ब्रह्म जातिमत्? अतः न सदादिशब्दवाच्यम्। नापि गुणवत्? येन गुणशब्देन उच्येत? निर्गुणत्वात्। नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् निष्कलं निष्क्रियं शान्तम् (श्वे0 उ0 6।19) इति श्रुतेः। न च संबन्धी? एकत्वात्। अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च न केनचित् शब्देन उच्यते इति युक्तम् यतो वाचो निवर्तन्ते (तै0 उ0 2।4।9) इत्यादिश्रुतिभिश्च।।सच्छब्दप्रत्ययाविषयत्वात् असत्त्वाशङ्कायां ज्ञेयस्य सर्वप्राणिकरणोपाधिद्वारेण तदस्तित्वं प्रतिपादयन् तदाशङ्कानिवृत्त्यर्थमाह --,
Verse 14

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् | सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||१३-१४||

sarvataḥ pāṇipādaṃ tatsarvato.akṣiśiromukham . sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ||13-14||

T Translation

।।13.14।। वह सब ओर हाथ-पैर वाला है और सब ओर से नेत्र, शिर और मुखवाला तथा सब ओर से श्रोत्रवाला है; वह जगत् में सबको व्याप्त करके स्थित है।।

C Commentary

।।13.14।। --,सर्वतःपाणिपादं सर्वतः पाणयः पादाश्च अस्य इति सर्वतःपाणिपादं तत् ज्ञेयम्। सर्वप्राणिकरणोपाधिभिः क्षेत्रज्ञस्य अस्तित्वं विभाव्यते। क्षेत्रज्ञश्च क्षेत्रोपाधितः उच्यते। क्षेत्रं च पाणिपादादिभिः अनेकधा भिन्नम्। क्षेत्रोपाधिभेदकृतं विशेषजातं मिथ्यैव क्षेत्रज्ञस्य? इति तदपनयनेन ज्ञेयत्वमुक्तम् न सत्तन्नासदुच्यते इति। उपाधिकृतं मिथ्यारूपमपि अस्तित्वाधिगमाय ज्ञेयधर्मवत् परिकल्प्य उच्यते सर्वतःपाणिपादम् इत्यादि। तथा हि संप्रदायविदां वचनम् -- अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति। सर्वत्र सर्वदेहावयवत्वेन गम्यमानाः पाणिपादादयः ज्ञेयशक्तिसद्भावनिमित्तस्वकार्याः इति ज्ञेयसद्भावे लिङ्गानि ज्ञेयस्य इति उपचारतः उच्यन्ते। तथा व्याख्येयम् अन्यत्। सर्वतःपाणिपादं तत् ज्ञेयम्। सर्वतोऽक्षिशिरोमुखं सर्वतः अक्षीणि शिरांसि मुखानि च यस्य तत् सर्वतोऽक्षिशिरोमुखम् सर्वतःश्रुतिमत् श्रुतिः श्रवणेन्द्रियम्? तत् यस्य तत् श्रुतिमत्? लोके प्राणिनिकाये? सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं लभते।।उपाधिभूतपाणिपादादीन्द्रियाध्यारोपणात् ज्ञेयस्य तद्वत्ताशङ्का मा भूत् इत्येवमर्थः श्लोकारम्भः --,
Verse 15

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् | असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ||१३-१५||

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam . asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ||13-15||

T Translation

।।13.15।। वह समस्त इन्द्रियों के गुणो (कार्यों) के द्वारा प्रकाशित होने वाला, परन्तु (वस्तुत:) समस्त इन्द्रियों से रहित है; आसक्ति रहित तथा गुण रहित होते हुए भी सबको धारणपोषण करने वाला और गुणों का भोक्ता है।।

C Commentary

।।13.15।। -- सर्वेन्द्रियगुणाभासं सर्वाणि च तानि इन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रियकर्मेन्द्रियाख्यानि? अन्तःकरणे च बुद्धिमनसी? ज्ञेयोपाधित्वस्य तुल्यत्वात्? सर्वेन्द्रियग्रहणेन गृह्यन्ते। अपि च? अन्तःकरणोपाधिद्वारेणैव श्रोत्रादीनामपि उपाधित्वम् इत्यतः अन्तःकरणबहिष्करणोपाधिभूतैः सर्वेन्द्रियगुणैः अध्यवसायसंकल्पश्रवणवचनादिभिः अवभासते इति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियव्यापारैः व्यापृतमिव तत् ज्ञेयम् इत्यर्थः ध्यायतीव लेलायतीव (बृह0 उ0 4।3।7) इति श्रुतेः। कस्मात् पुनः कारणात् न व्यापृतमेवेति गृह्यते इत्यतः आह -- सर्वेन्द्रियविवर्जितम्? सर्वकरणरहितमित्यर्थः। अतः न करणव्यापारैः व्यापृतं तत् ज्ञेयम्। यस्तु अयं मन्त्रः -- अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः (श्वे0 उ0 3।19) इत्यादिः? स सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमत् तत् ज्ञेयम् इत्येवं प्रदर्शनार्थः? न तु साक्षादेव जवनादिक्रियावत्त्वप्रदर्शनार्थः। अन्धो मणिमविन्दत् (तै0 आ0 1।11) इत्यादिमन्त्रार्थवत् तस्य मन्त्रस्य अर्थः। यस्मात् सर्वकरणवर्जितं ज्ञेयम्? तस्मात् असक्तं सर्वसंश्लेषवर्जितम्। यद्यपि एवम्? तथापि सर्वभृच्च एव। सदास्पदं हि सर्वं सर्वत्र सद्बुद्ध्यनुगमात्। न हि मृगतृष्णिकादयोऽपि निरास्पदाः भवन्ति। अतः सर्वभृत् सर्वं बिभर्ति इति। स्यात् इदं च अन्यत् ज्ञेयस्य सत्त्वाधिगमद्वारम् -- निर्गुणं सत्त्वरजस्तमांसि गुणाः तैः वर्जितं तत् ज्ञेयम्? तथापि गुणभोक्तृ च गुणानां सत्त्वरजस्तमसां शब्दादिद्वारेण सुखदुःखमोहाकारपरिणतानां भोक्तृ च उपलब्धृ च तत् ज्ञेयम् इत्यर्थः।।किञ्च --,
Verse 16

बहिरन्तश्च भूतानामचरं चरमेव च | सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ||१३-१६||

bahirantaśca bhūtānāmacaraṃ carameva ca . sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ||13-16||

T Translation

।।13.16।। (वह ब्रह्म) भूत मात्र के अन्तर्बाह्य स्थित है; वह चर है और अचर भी। सूक्ष्म होने से वह अविज्ञेय है; वह सुदूर और अत्यन्त समीपस्थ भी है।।

C Commentary

।।13.16।। -- बहिः त्वक्पर्यन्तं देहम् आत्मत्वेन अविद्याकल्पितम् अपेक्ष्य तमेव अवधिं कृत्वा बहिः उच्यते। तथा प्रत्यगात्मानमपेक्ष्य देहमेव अवधिं कृत्वा अन्तः उच्यते। बहिरन्तश्च इत्युक्ते मध्ये अभावे प्राप्ते? इदमुच्यते -- अचरं चरमेव च? यत् चराचरं देहाभासमपि तदेव ज्ञेयं यथा रज्जुसर्पाभासः। यदि अचरं चरमेव च स्यात् व्यवहारविषयं सर्वं ज्ञेयम्? किमर्थम् इदम् इति सर्वैः न विज्ञेयम् इति उच्यते -- सत्यं सर्वाभासं तत् तथापि व्योमवत् सूक्ष्मम्। अतः सूक्ष्मत्वात् स्वेन रूपेण तत् ज्ञेयमपि अविज्ञेयम् अविदुषाम्। विदुषां तु? आत्मैवेदं सर्वम् (छा0 उ0 7।25।2) ब्रह्मैवेदं सर्वम् (बृ0 उ0 2।5।1) इत्यादिप्रमाणतः नित्यं विज्ञातम्। अविज्ञाततया दूरस्थं वर्षसहस्रकोट्यापि अविदुषाम् अप्राप्यत्वात्। अन्तिके च तत्? आत्मत्वात् विदुषाम्।।किञ्च --,
Verse 17

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् | भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ||१३-१७||

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam . bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||13-17||

T Translation

।।13.17।। और वह अविभक्त है, तथापि वह भूतों में विभक्त के समान स्थित है। वह ज्ञेय ब्रह्म भूतमात्र का भर्ता, संहारकर्ता और उत्पत्ति कर्ता है।।

C Commentary

।।13.17।। --,अविभक्तं च प्रतिदेहं व्योमवत् तदेकम्। भूतेषु सर्वप्राणिषु विभक्तमिव च स्थितं देहेष्वेव विभाव्यमानत्वात्। भूतभर्तृ च भूतानि बिभर्तीति तत् ज्ञेयं भूतभर्तृ च स्थितिकाले। प्रलयकाले गृसिष्णु ग्रसनशीलम्। उत्पत्तिकाले प्रभविष्णु च प्रभवनशीलं यथा रज्जवादिः सर्पादेः मिथ्याकल्पितस्य।।किञ्च? सर्वत्र विद्यमानमपि सत् न उपलभ्यते चेत्? ज्ञेयं तमः तर्हि न। किं तर्हि --,
Verse 18

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते | ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ||१३-१८||

jyotiṣāmapi tajjyotistamasaḥ paramucyate . jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ||13-18||

T Translation

।।13.18।। (वह ब्रह्म) ज्योतियों की भी ज्योति और (अज्ञान) अन्धकार से परे कहा जाता है। वह ज्ञान (चैतन्यस्वरूप) ज्ञेय और ज्ञान के द्वारा जानने योग्य (ज्ञानगम्य) है। वह सभी के हृदय में स्थित है।।

C Commentary

(13.18।। -- ज्योतिषाम् आदित्यादीनामपि तत् ज्ञेयं ज्योतिः। आत्मचैतन्यज्योतिषा इद्धानि हि आदित्यादीनि ज्योतींषि दीप्यन्ते? येन सूर्यस्तपति तेजसेद्धः तस्य भासा सर्वमिदं विभाति (श्वे0 उ0 6।14) इत्यादिश्रुतिभ्यः स्मृतेश्च इहैव -- यदादित्यगतं तेजः इत्यादेः। तमसः अज्ञानात् परम् अस्पृष्टम् उच्यते। ज्ञानादेः दुःसंपादनबुद्ध्या प्राप्तावसादस्य उत्तम्भनार्थमाह -- ज्ञानम् अमानित्वादि ज्ञेयम् ज्ञेयं यत् तत् प्रवक्ष्यामि (गीता 13।12) इत्यादिना उक्तम् ज्ञानगम्यम् ज्ञेयमेव ज्ञातं सत् ज्ञानफलमिति ज्ञानगम्यमुच्यते ज्ञायमानं तु ज्ञेयम्। तत् एतत् त्रयमपि हृदि बुद्धौ सर्वस्य प्राणिजातस्य विष्ठितं विशेषेण स्थिम्। तत्रैव हि त्रयं विभाव्यते।।यथोक्तार्थोपसंहारार्थः अयं श्लोकः आरभ्यते --,
Verse 19

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः | मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ||१३-१९||

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ . madbhakta etadvijñāya madbhāvāyopapadyate ||13-19||

T Translation

।।13.19।। इस प्रकार, (मेरे द्वारा) क्षेत्र, ज्ञान और ज्ञेय को संक्षेपत: कहा गया। इसे तत्त्व से जानकर (विज्ञाय) मेरा भक्त मेरे स्वरूप को प्राप्त होता है।।

C Commentary

।।13.19।। -- इति एवं क्षेत्रं महाभूतादि धृत्यन्तं तथा ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं ज्ञेयं च ज्ञेयं यत् तत् इत्यादि तमसः परमुच्यते (गीता 13।17) इत्येवमन्तम् उक्तं समासतः संक्षेपतः। एतावान् सर्वः हि वेदार्थः गीतार्थश्च उपसंहृत्य उक्तः। अस्मिन् सम्यग्दर्शने कः अधिक्रियते इति उच्यते -- मद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावः यत् पश्यति शृणोति स्पृशति वा सर्वमेव भगवान् वासुदेवः इत्येवंग्रहाविष्टबुद्धिः मद्भक्तः। स एतत् यथोक्तं सम्यग्दर्शनं विज्ञाय? मद्भावाय मम भावः मद्भावः परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति।।तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते? परापरे क्षेत्रक्षेत्रज्ञलक्षणे एतद्योनीनि भूतानि इति च उक्तम्। क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानामिति अयमर्थः अधुना उच्यते --,
Verse 20

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि | विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ||१३-२०||

prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi . vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ||13-20||

T Translation

।।13.20।। प्रकृति और पुरुष इन दोनों को ही तुम अनादि जानो। और तुम यह भी जानो कि सभी विकार और गुण प्रकृति से ही उत्पन्न हुए हैं।।

C Commentary

।।13.20।। --,प्रकृतिं पुरुषं चैव ईश्वरस्य प्रकृती तौ प्रकृतिपुरुषौ उभावपि अनादि विद्धि? न विद्यते आदिः ययोः तौ अनादी। नित्येश्वरत्वात् ईश्वरस्य तत्प्रकृत्योरपि युक्तं नित्यत्वेन भवितुम्। प्रकृतिद्वयवत्त्वमेव हि ईश्वरस्य ईश्वरत्वम्। याभ्यां प्रकृतिभ्याम् ईश्वरः जगदुत्पत्तिस्थितिप्रलयहेतुः? ते द्वे अनादी सत्यौ संसारस्य कारणम्।।न आदी अनादी इति तत्पुरुषसमासं केचित् वर्णयन्ति। तेन हि किल ईश्वरस्य कारणत्वं सिध्यति। यदि पुनः प्रकृतिपुरुषावेव नित्यौ स्यातां तत्कृतमेव जगत् न ईश्वरस्य जगतः कर्तृत्वम्। तत् असत् प्राक् प्रकृतिपुरुषयोः उत्पत्तेः ईशितव्याभावात् ईश्वरस्य अनीश्वरत्वप्रसङ्गात्? संसारस्य निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गात् शास्त्रानर्थक्यप्रसङ्गात् बन्धमोक्षाभावप्रसङ्गाच्च। नित्यत्वे पुनः ईश्वरस्य प्रकृत्योः सर्वमेतत् उपपन्नं भवेत्। कथम् विकारांश्च गुणांश्चैव वक्ष्यमाणान्विकारान् बुद्ध्यादिदेहेन्द्रियान्तान् गुणांश्च सुखदुःखमोहप्रत्ययाकारपरिणतान् विद्धि जानीहि प्रकृतिसंभवान्? प्रकृतिः ईश्वरस्य विकारकारणशक्तिः त्रिगुणात्मिका माया? सा संभवो येषां विकाराणां गुणानां च तान् विकारान् गुणांश्च विद्धि प्रकृतिसंभवान् प्रकृतिपरिणामान्।।के पुनः ते विकाराः गुणाश्च प्रकृतिसंभवाः --,