Shopping Cart

Total Amount
Checkout Now
Bhagavad Gita

Chapter 13, Verse 19

क्षेत्र-क्षेत्रज्ञविभागयोग - प्रकृति, पुरुष तथा चेतना

Chapter 13 • Verse 19

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः | मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ||१३-१९||

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ . madbhakta etadvijñāya madbhāvāyopapadyate ||13-19||

T Translation

।।13.19।। इस प्रकार, (मेरे द्वारा) क्षेत्र, ज्ञान और ज्ञेय को संक्षेपत: कहा गया। इसे तत्त्व से जानकर (विज्ञाय) मेरा भक्त मेरे स्वरूप को प्राप्त होता है।।

C Commentary

।।13.19।। -- इति एवं क्षेत्रं महाभूतादि धृत्यन्तं तथा ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं ज्ञेयं च ज्ञेयं यत् तत् इत्यादि तमसः परमुच्यते (गीता 13।17) इत्येवमन्तम् उक्तं समासतः संक्षेपतः। एतावान् सर्वः हि वेदार्थः गीतार्थश्च उपसंहृत्य उक्तः। अस्मिन् सम्यग्दर्शने कः अधिक्रियते इति उच्यते -- मद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावः यत् पश्यति शृणोति स्पृशति वा सर्वमेव भगवान् वासुदेवः इत्येवंग्रहाविष्टबुद्धिः मद्भक्तः। स एतत् यथोक्तं सम्यग्दर्शनं विज्ञाय? मद्भावाय मम भावः मद्भावः परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति।।तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते? परापरे क्षेत्रक्षेत्रज्ञलक्षणे एतद्योनीनि भूतानि इति च उक्तम्। क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानामिति अयमर्थः अधुना उच्यते --,